|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.249. अध्यायः 249
Mahabharata - Shanti Parva - Chapter Topics
------------
--- प्रतिपादकव्यासयाक्यानुवादः॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
व्यास उवाच। 12-249-0x(6249)(75447)
--तीयमायुषो भागं गृहमेधी गृहे वसेत्।
धर्मलब्धैर्युतो दारैरग्नीनाहृत्य सुव्रतः॥ 12-249-1(75448)
गृहस्थवृत्तयश्चैव चतस्रः कविभिः स्मृताः।
कुमूलधान्यः प्रथमः कुम्भधान्यस्त्वनन्तरम्॥ 12-249-2(75449)
अश्वस्तनोऽथ कापोतीमाश्रितो वृत्तिमाहरेत्।
तेषां परः परो ज्यायान्धर्मतो लोकजित्तमः॥ 12-249-3(75450)
षट्कर्मावर्तयत्येकस्त्रिभिरन्यः प्रवर्तते।
द्वाभ्यामेकश्चतुर्थस्तु ब्रह्मसत्रे व्यवस्थितः॥ 12-249-4(75451)
गृहमेधिव्रतान्यत्र महान्तीह प्रचक्षते।
नात्मार्थे पाचयेदन्नं न वृथा घातयेत्पशून्॥ 12-249-5(75452)
प्राणी वा यदि वाऽप्राणी संस्कारं यजुषाऽर्हति।
न दिवा प्रस्वपेज्जातु न पूर्वापररात्रयोः॥ 12-249-6(75453)
न भुञ्जीतान्तराकाले नानृतावाह्वयेत्स्त्रियम्।
नास्यानश्नन्गृहे विप्रो वसेत्कश्चिदपूजितः॥ 12-249-7(75454)
तथास्यातिथयः पूज्या हव्यकव्यवहाः सदा।
वेदविद्याव्रतस्नाताः श्रोत्रिया वेदपारगाः॥ 12-249-8(75455)
स्वकर्मजीविनो दान्ताः क्रियावन्तस्तपस्विनः।
तेषां हव्यं च कव्यं चाप्यर्हणार्थं विधीयते॥ 12-249-9(75456)
नखरैः संप्रयातस्य स्वकर्मव्यापकस्य च।
अपविद्धाग्निहोत्रस्य गुरोर्वाऽलीकचारिणः॥ 12-249-10(75457)
संविभागोऽत्र भूतानां सर्वेषामेव शिष्यते।
तथैवापचमानेभ्यः प्रदेयं गृहमेधिना॥ 12-249-11(75458)
विस्साशी भवेन्नित्यं नित्यं चामृतभोजनः।
असुत --शेषं स्याद्भोजनं हविषा समम्॥ 12-249-12(75459)
भृत्यशेष तु योऽश्नाति तमाहुर्विघसा शिनम्।
विघसं भृत्यशेषं तु यज्ञशेषमथास्मृतय॥ 12-249-13(75460)
स्वदारनिरतो दान्तो ह्यनसूयुर्जितेन्द्रियः।
ऋत्विक्पुरोहिताचार्यर्मालुलातिथिनंश्रितैः॥ 12-249-14(75461)
वृद्धबालातुरैर्वैद्यैर्ज्ञातिसंबन्धिरान्धवैः।
मातापितृभ्यां जामीभिर्भ्रात्रा पुत्रेण भावया॥ 12-249-15(75462)
दुहित्रा दासवर्गेण विवादं न समाचरत्।
एतान्विमुच्य संवादान्सर्वपापैर्विमुच्यते॥ 12-249-16(75463)
एतैर्जितस्तु जयति सर्वाल्लोँकान्न संशयः।
आचार्यो ब्रह्मलोकेशः प्राजापत्ये पिता प्रभुः॥ 12-249-17(75464)
अतिथिस्त्विन्द्रलोकस्य देवलोकस्य चर्त्विजः।
जामयोऽप्सरसां लोके वैश्वदेवे तु ज्ञातयः॥ 12-249-18(75465)
संबन्धिबान्धवा दिक्षु पृथिव्यां मातृमातुलौ।
बृद्धबावातुरकृशास्त्वाकाशे प्रभविष्णवः॥ 12-249-19(75466)
भ्राता ज्येष्ठः समः पित्रा भार्या पुत्रः स्वका तनुः।
छाया स्वा दासवर्गश्च दुहिता कृपणं परम्॥ 12-249-20(75467)
तस्मादेतैरधिक्षिप्तः सहेन्नित्यमसंज्वरः।
गृहधर्मरतो विद्वान्धर्मनित्यो जितक्लमः॥ 12-249-21(75468)
न चार्थबद्धः कर्माणि धर्मं वा किंचिदाचरेत्।
गृहस्थवृत्तयस्तिस्रस्तासां निःश्रेयसं परम्॥ 12-249-22(75469)
परंपरं तथैवाहुश्चातुराश्रम्यमेव तत्।
ये चोक्ता नियमास्तेषां सर्वं कार्यं बुभूषता॥ 12-249-23(75470)
कुम्भधान्यैरुच्छशिलैः कापोतीं चास्थितास्तथा।
यस्मिंश्चैते वसन्त्यर्हास्तद्राष्ट्रमभिवर्धते॥ 12-249-24(75471)
दश पूर्वान्दश परान्पुनाति च पितामहान्।
गृहस्थवृत्तीश्चाप्येता वर्तयेद्यो गतव्यथः॥ 12-249-25(75472)
स चक्रधरलोकानां सदृशीमाप्नुयाद्गतिम्।
वितेन्द्रियाणामथवा गतिरेषा विधीयते॥ 12-249-26(75473)
सर्वलोको गृहस्थानामुदारमनसां हितः।
-- विमानसंयुक्तो वेददृष्टः -----॥ 12-249-27(75474)
--लोको गृहस्थानां प्रतिष्ठा निवतात्मनान्।
ब्रह्मणा विहिता श्रेणिरेषा पस्पाद्विधीयते।
द्वितीयं क्रमशः प्राप्य स्वर्गलोके महीयते॥ 12-249-28(75475)
अतः परं परममुदारमाश्रम्
तृतीयमाहुस्त्यजतां कलेवरम्।
वनौकसां गृहपतिनामनुत्तमं
शृणुष्व संश्लिष्टशरीरकारिणाम्॥ ॥ 12-249-29(75476)
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि एकोनपञ्चाशदधिकद्विशततमोऽध्यायः॥ 249॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-249-2 वृत्तयो जीविकाः॥ 12-249-3 कापोतीमुञ्छवृत्तिम्॥ 12-249-4 षट् यजनयाजनाध्ययनाध्यापनदानप्रतिग्रहाः कर्म तस्य एको गृहस्थाः त्रिभिर्यजनाध्ययनदानैः। अन्यो वानप्रस्थः द्वाभ्यां दानाध्ययनाभ्याम्। ब्रह्मसत्रे प्रणवोपास्तौ॥ 12-249-5 अत्र गार्हस्थ्ये॥ 12-249-6 प्राणी छागादिः। अप्राणी अश्वत्यादिः। यजुषा छेदनमन्त्रेणैव क्रत्वर्थमेव संस्कारमर्हति नतु भक्षणमात्रार्थम्॥ 12-249-7 अन्तरा भोजनद्वयमध्ये। स्त्रियं मैथुनायेति शेषः॥ 12-249-10 नखरैर्नखैः। दम्भार्थं नखलोमधरस्य। अपविद्धमविधिना त्यक्तमग्निहोत्रं येन तस्य। एवंविधानां चाण्डालादीनां च भूतानामत्र गार्हस्थ्ये संविभागोऽस्ति॥ 12-249-11 अपचमानेभ्यो ब्रह्मचारिसंन्यासिभ्यः। तथैव याचमानेभ्य इति ध. पाठः॥ 12-249-15 जामीभिः सगोत्रस्त्रीभिः॥ 12-249-16 संवादानंशाद्यर्थं कलहान्॥ 12-249-17 आचार्यादयः सम्यगाराधिता ब्रह्मलोकादीन् प्रति नयन्तीत्याहाचार्य इति सार्धाभ्याम्॥ 12-249-20 कृपणं कृपास्थानमिति रत्नगर्भः॥ 12-249-22 नचेति। अर्थाशयाऽग्निहोत्रादीन्न कुर्यात्। तिस्रो वक्ष्यमाणाः कुम्भधान्यमुञ्छशिलं कापोतीं च तासां परमुत्तरमुत्तरं श्रेयः॥ 12-249-23 चातुराश्रम्यमध्येऽपि परं परं श्रेयः॥ 12-249-26 चक्रधराश्चक्रवर्तिनो मान्धात्रादयस्तल्लोकानां सदृशीं गतिं तत्तुल्यताम्॥ 12-249-27 सुपुष्पितो रमणीयः॥ 12-249-29 गृहपतिनां हस्वत्वमार्षम्। गृहस्थेभ्यः श्रेष्ठं संश्लिष्टमस्थिचर्ममात्रसंश्लेषवत् तच्च तच्छरीरं च तस्य कारिणां शरीरशोषकाणामित्यर्थः। शरीरकर्मणामिति ध. पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|